सोमवार, 2 मई 2016

Worksheet of tat tvam asi class 9 sanskrit cbse # तत् त्वं असि


                     तत् त्वं  असि 
-----------------------------------------------------------------------------
प्रश्न १- अधोलिखित गद्यांशम् पठित्वा उत्तरत् -

 महर्षेः आरुणेः पुत्रः श्वेतकेतु: आसीत् | द्वादशवर्षीय तं  पुत्रं पिता आरुणिः उवाच - हे श्वेतकेतो ! 
 गुरुं प्रति गच्छ अध्ययनार्थ् यत: सौम्य ! अस्मत्कुलिन: अनधीत्य न भवति इति| स: पुत्रः आचार्यं 
 उपेत्य यावत् चतुर्विंशति वर्षः अभवत् तावत् सः सर्वान् वेदान् सार्थान् अधीत्य पितुः सकाशं 
आगच्छत् | सः च ‘सर्वश्रेष्ठ: अहम्‘ इति मन्यमान: उद्धत स्वभाव: अभवत् | 
क-एक पदेन उत्तरत्-
·         श्वेतुकेतु: कस्य पुत्र: आसीत् ?
·         क: द्वादशवर्षीय: आसीत् ?
·         पितु: सकाशं क: आगच्छत् ?
·         श्वेतुकेतु: कथं अभवत्?
ख-एक वाक्येन  उत्तरत् -
·         आरुणि: स्वपुत्रं किम् उवाच ?
·         श्वेतकेतु: कस्मात् कान् अधीत्य पितुः सकाशं आगच्छत्?
ग -निर्देश अनुसारं उत्तरत् -
·         सर्वश्रेष्ठ: अहम्‘ अत्र विशेषणम् विशेष्यम्  चित्वा लिखत|
·         आगच्छत् इति क्रिया पदस्य कर्ता लिखत |
प्रश्न २ - प्रश्न निर्माणं कुरुत
·         श्वेतकेतु:  गुरुं प्रति गच्छति |
·         स: चतुर्विंशति वर्षः अभवत् |
·         सः वेदान् अपठत् |